|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.115. अध्यायः 115
Mahabharata - Vana Parva - Chapter Topics
युधिष्ठिरेण गङ्गासागरसङ्गमादितीर्थगमनम् ॥ 1 ॥ लोमशेन युधिष्ठिरंप्रति तत्तत्तीर्थाश्रममहिमानुवर्णनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-115-0x(2075)(20449)
ततः प्रयातः कौशिक्याः पाण्डवो जनमेजय।
आनुपूर्व्येण सर्वाणि जगामायतनान्यथ ॥ 3-115-1(20450)
स सागरं समासाद्य गङ्गायाः संगमे नृप।
नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम् ॥ 3-115-2(20451)
ततः समुद्रतीरेण जगाम वसुधाधिपः।
भ्रातृभिः सहितो वीरः कलिङ्गान्प्रति भारत ॥ 3-115-3(20452)
लोमश उवाच। 3-115-4x(2076)
एते कलिङ्गाः कौन्तेय यत्र वैतरणी नदी।
यत्रायजत धर्मोपि देवाञ्शरणमेत्य वै ॥ 3-115-4(20453)
ऋषिभिः समुपायुक्तं यज्ञियं गिरिशोभितम्।
उत्तरं तीरमेतद्धि सततं द्विजसेवितम् ॥ 3-115-5(20454)
समेन देवयानेन पथा स्वर्गमुपेयुषः।
अत्रवै ऋषयोऽन्येऽपि पुरा क्रतुभिरीजिरे ॥ 3-115-6(20455)
अत्रैव रुद्रो राजेन्द्र पशुमादत्तवान्मखे।
पशुमादाय राजेन्द्र भागोयमिति चाब्रवीत् ॥ 3-115-7(20456)
हृते पशौ तदा देवास्तमूचुर्भरतर्षभ।
मा परस्वमभिद्रोग्धा माधर्म्यान्नीनशः पथः ॥ 3-115-8(20457)
`स्वयं यज्ञेश्वरो भूत्वा कर्मणां फलदायकः।
यज्ञं विहन्तुं भगवान्नार्हसे जगदीश्वर' ॥ 3-115-9(20458)
इतिकल्याणरूपाभिर्वाग्भिस्ते रुद्रमस्तुवन्।
इष्ट्या चैनं तर्पयित्वा मानयांचक्रिरे तदा ॥ 3-115-10(20459)
ततः स पशुमुत्सृज्य देवयानेन जग्मिवान्।
तत्रानुवंशो रुद्रस्यतं निबोध युधिष्ठिर ॥ 3-115-11(20460)
अयातयामं सर्वेभ्यो भागेभ्यो भागमुत्तमम्।
देवाः संकल्पयामासुर्भयाद्रुद्रस्य शाश्वतम् ॥ 3-115-12(20461)
इमां गाथामत्र गायन्नपः स्पृशति यो नरः।
देवयानोऽस्य पन्थाश्च चक्षुषाऽभिप्रकाशते ॥ 3-115-13(20462)
वैशम्पायन उवाच। 3-115-14x(2077)
ततो वैतरणीं सर्वे पाण्डवा द्रौपदी तथा।
अवतीर्य महाभागास्तर्पयांचक्रिरे पितृन् ॥ 3-115-14(20463)
युधिष्ठिर उवाच। 3-115-15x(2078)
उपस्पृश्येह विधिवदस्यां नद्यां तपोबलात्।
मानुषादस्मि विषयादपेतः पश्य लोमश ॥ 3-115-15(20464)
सर्वाल्लोँकान्प्रपश्यामि प्रसादात्तव सुव्रत।
वैखानसानां जपतामेष शब्दो महात्मनाम् ॥ 3-115-16(20465)
लोमश उवाच। 3-115-17x(2079)
त्रिशतं वै सहस्राणि योजनानां युधिष्ठिर।
यत्रध्वनिं शृणोष्येनं तूष्णीमास्स्व विशांपते ॥ 3-115-17(20466)
एतत्स्वयंभुवो राजन्वनं दिव्यं प्रकाशते।
यत्रायजत राजेन्द्र विश्वकर्मा प्रतापवान् ॥ 3-115-18(20467)
यस्मिन्यज्ञे हि भूर्दत्ता कश्यपाय महात्मने।
सपर्वतवनोद्देशा दक्षिणार्थे स्वयंभुवा ॥ 3-115-19(20468)
अवासीदच्च कौन्तेय दत्तमात्रा मही तदा।
उवाच चापि कुपिता लोकश्वरमिदं प्रभुम् ॥ 3-115-20(20469)
न मां मर्त्याय भगवन्कस्मैचिद्दातुमर्हसि।
प्रदानं मोघमेतत्ते यास्याम्येषा रसातलम् ॥ 3-115-21(20470)
विषीदन्तीं तु तां दृष्ट्वा कश्यपो भगवानृषिः।
प्रसादयांबभूवाथ ततो भूमिं विशांपते ॥ 3-115-22(20471)
ततः प्रसन्ना पृथिवी तपसा तस्य पाण्डव।
पुनरुन्नह्य सलिलाद्देदीरूपास्थिता बभौ ॥ 3-115-23(20472)
सैषा प्रकाशते राजन्वेदीसंस्थानलक्षणा।
आरुह्यात्र महाराज वीर्यवान्वै भविष्यसि ॥ 3-115-24(20473)
सैषा सागरमास्राद्य राजन्वेदी समाश्रिता।
एतामारुह्य भद्रं ते त्वमेकस्तर सागरम् ॥ 3-115-25(20474)
अहं च ते स्वस्त्ययनं प्रयोक्ष्ये
यथा त्वमेनामधिरोहसेऽद्य।
स्पृष्टा हि मर्त्येन ततः समुद्र-
मेषा वेदी प्रविशत्याजमीढ ॥ 3-115-26(20475)
ओंनमो विश्वगुप्ताय नमो विश्वपराय ते।
सान्निध्यं कुरु देवेश सागरे लवणाम्भसि ॥ 3-115-27(20476)
अग्निर्मित्रो योनिरापोऽथ देव्यो
विष्णो रेतस्त्वममृतस्य नाभिः।
एवं ब्रुवन्पाण्डव सत्यवाक्यं
वेदीमिमां त्वं तरसाऽधिरोह ॥ 3-115-28(20477)
अग्निश्च ते योनिरिडा च देहो
रेतोधा विष्णोरमृतस्य नाभिः।
एवं ब्रुवन्पाण्डव सत्यवाक्यं
ततोऽवगाहेत पतिं नदीनाम् ॥ 3-115-29(20478)
अन्यथा हि कुरुश्रेष्ठ देवयोनिरपांपतिः।
कुशाग्रेणापि कौन्तेय न स्प्रष्टव्यो महोदधिः ॥ 3-115-30(20479)
वैशम्पायन उवाच। 3-115-31x(2080)
ततः कृतस्वस्त्ययनो महात्मा
युधिष्ठिरः सागरमभ्यगच्छत्।
कृत्वा च तच्छासनमस्य सर्वं
महेन्द्रमासाद्य निशामुवास ॥ 3-115-31(20480)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चदशाधिकशततमोऽध्यायः ॥ 115 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-115-5 उत्तरंतीरं वैतरण्याः ॥ 3-115-8 मा परस्वमभिद्रोग्धा परभागस्य नाशं मादुर्वित्यर्थः ॥ 3-115-12 अयातयामं तात्कालिकम् ॥ 3-115-27 समुद्रप्रार्थनामन्रमाह ओंनम इति। विश्वं गुप्तं लीनमस्मिन् प्रलये इति विश्वगुप्तः। विश्वस्मात्पराय श्रेष्ठाय विष्णवे इत्यर्थः। लवणाम्भसि क्षारोदके ॥ 3-115-30 देवयोनिः देवस्तानम् ॥ 3-115-31 युधिष्ठिरः सागरगामचच्छदिति क. ध. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|